मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ९३, ऋक् ८

संहिता

ऋ॒भुरृ॑भु॒क्षा ऋ॒भुर्वि॑ध॒तो मद॒ आ ते॒ हरी॑ जूजुवा॒नस्य॑ वा॒जिना॑ ।
दु॒ष्टरं॒ यस्य॒ साम॑ चि॒दृध॑ग्य॒ज्ञो न मानु॑षः ॥

पदपाठः

ऋ॒भुः । ऋ॒भु॒क्षाः । ऋ॒भुः । वि॒ध॒तः । मदः॑ । आ । ते॒ । हरी॒ इति॑ । जू॒जु॒वा॒नस्य॑ । वा॒जिना॑ ।
दु॒स्तर॑म् । यस्य॑ । साम॑ । चि॒त् । ऋध॑क् । य॒ज्ञः । न । मानु॑षः ॥

सायणभाष्यम्

ऋभुक्षा महानिन्द्र ऋभुर्यज्ञेन भाति। किञ्च विधतस्त्वां परिचरतो यजमानस्य मदो हर्षोऽप्यृभुर्यज्ञेन भाति। हे इन्द्र आ जूजुवानस्याति शीघ्रमागच्छतस्ते तव हरी अश्वावपि वाजिना वाजिनौ बलवन्तौ। किञ्च यस्येन्द्रस्य सम्बन्धि साम चिद्गीयमानं सामापि दुष्टरं रक्शोभिरप्रापणीयम्। एश यज्ञो मानुशो मनुष्य्साधारणो न किञ्चर्धक् पृथक्। दिव्य इत्यर्थः॥८॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७