मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ९३, ऋक् ९

संहिता

कृ॒धी नो॒ अह्र॑यो देव सवित॒ः स च॑ स्तुषे म॒घोना॑म् ।
स॒हो न॒ इन्द्रो॒ वह्नि॑भि॒र्न्ये॑षां चर्षणी॒नां च॒क्रं र॒श्मिं न यो॑युवे ॥

पदपाठः

कृ॒धि । नः॒ । अह्र॑यः । दे॒व॒ । स॒वि॒त॒रिति॑ । सः । च॒ । स्तु॒षे॒ । म॒घोना॑म् ।
स॒हः । नः॒ । इन्द्रः॑ । वह्नि॑ऽभिः । नि । ए॒षा॒म् । च॒र्ष॒णी॒नाम् । च॒क्रम् । र॒श्मिम् । न । यो॒यु॒वे॒ ॥

सायणभाष्यम्

हे सवितः प्रेरकः नोऽस्मानह्रयोऽनवनतवदनानलज्जितान्कृधि। कुरु। किञ्च स त्वं मघोनां धनवतां यजमानानां सम्बन्धिभिरृत्विग्भिः स्तुषे। स्तूयसे। इन्द्रो वह्निभिर्वोढृभिर्मरुद्भिः सह सहो बलं चर्षणीनां मनुष्याणां नोऽस्माकंनि योयुवे। भृशं निमिश्रयतु। तत्र दृष्टान्तः। चक्रं रथस्य चक्रं रश्मिं न यथा चक्रादिकं तद्वदित्यर्थः॥९॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७