मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ९३, ऋक् १०

संहिता

ऐषु॑ द्यावापृथिवी धातं म॒हद॒स्मे वी॒रेषु॑ वि॒श्वच॑र्षणि॒ श्रवः॑ ।
पृ॒क्षं वाज॑स्य सा॒तये॑ पृ॒क्षं रा॒योत तु॒र्वणे॑ ॥

पदपाठः

आ । ए॒षु॒ । द्या॒वा॒पृ॒थि॒वी॒ इति॑ । धा॒त॒म् । म॒हत् । अ॒स्मे इति॑ । वी॒रेषु॑ । वि॒श्वऽच॑र्षणि । श्रवः॑ ।
पृ॒क्षम् । वाज॑स्य । सा॒तये॑ । पृ॒क्षम् । रा॒या । उ॒त । तु॒र्वणे॑ ॥

सायणभाष्यम्

हे द्यावापृथिवी द्यावापृथिव्यौ युवामस्मे अस्माकं सम्बन्धिष्वेषु वीरेषु पुत्रेषु विश्वचर्षणि सर्वमनुष्योपेतं महच्छ्रवो यश आ धातम्। आधत्तम्। दत्तम्। किञ्च वाजस्य बलस्य सातये सम्भजनाय पृक्षं पालकमन्नं दत्तम्। उतापि च तुर्वणे शत्रूणां तरणाय राया धनेन सह पृक्शमन्नं दत्तम्॥१०॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७