ए॒तं शंस॑मिन्द्रास्म॒युष्ट्वं कूचि॒त्सन्तं॑ सहसावन्न॒भिष्ट॑ये ।
सदा॑ पाह्य॒भिष्ट॑ये मे॒दतां॑ वे॒दता॑ वसो ॥
ए॒तम् । शंस॑म् । इ॒न्द्र॒ । अ॒स्म॒ऽयुः । त्वम् । कूऽचि॑त् । सन्त॑म् । स॒ह॒सा॒ऽव॒न् । अ॒भिष्ट॑ये । सदा॑ । पा॒हि॒ । अ॒भिष्ट॑ये ।
मे॒दता॑म् । वे॒दता॑ । व॒सो॒ इति॑ ॥
हे वसो वासयितः सहसावन् बलवन्निन्द्र अस्मयुरस्मान्कामयमानस्त्वं कूचित् क्वचिदपि सन्तं स्थितमेतमिमं शंसं स्तोतारमभिष्टयेऽभिलषितसिद्ध्यर्थमपि चाभिष्टये यागार्थं सदा सर्वदा पाहि। रक्श। किञ्च वेदता त्वदीयेन प्रज्ञानेन स्तोतारं मां मेदताम्। बुद्यस्व॥११॥