मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ९३, ऋक् १२

संहिता

ए॒तं मे॒ स्तोमं॑ त॒ना न सूर्ये॑ द्यु॒तद्या॑मानं वावृधन्त नृ॒णाम् ।
सं॒वन॑नं॒ नाश्व्यं॒ तष्टे॒वान॑पच्युतम् ॥

पदपाठः

ए॒तम् । मे॒ । स्तोम॑म् । त॒ना । न । सूर्ये॑ । द्यु॒तत्ऽया॑मानम् । व॒वृ॒ध॒न्त॒ । नृ॒णाम् ।
स॒म्ऽवन॑नम् । न । अश्व्य॑म् । तष्टा॑ऽइव । अन॑पऽच्युतम् ॥

सायणभाष्यम्

नृणां नेतॄणाम् देवशत्रूणां संवननं न सम्भजनं सम्यग्ळिंसनमिवावस्थितं मे मदीयमेतमिदं स्तोमं स्तोत्रं ववृधन्त। ऋत्विजो वर्धयन्तु। तत्र दृष्टान्तः। सूर्ये द्युतद्यामानं दीप्तगमनं तना न विस्तृतान्रश्मीन्वर्धयन्ति तद्वदित्यर्थः। अनपच्युतं च्युतिरहितमश्व्यमश्वार्हं रथं तष्टेव यथा वर्धकी रथिष्वागतेषु संस्कृतं रथं संस्कारस्थानात्प्रेरयति तद्वदित्यर्थः॥१२॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८