मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ९३, ऋक् १३

संहिता

वा॒वर्त॒ येषां॑ रा॒या यु॒क्तैषां॑ हिर॒ण्ययी॑ ।
ने॒मधि॑ता॒ न पौंस्या॒ वृथे॑व वि॒ष्टान्ता॑ ॥

पदपाठः

व॒वर्त॑ । येषा॑म् । रा॒या । यु॒क्ता । ए॒षा॒म् । हि॒र॒ण्ययी॑ ।
ने॒मऽधि॑ता । न । पौंस्या॑ । वृथा॑ऽइव । वि॒ष्टऽअ॑न्ता ॥

सायणभाष्यम्

येषां देवानां स्वभूतेन रायास्मभ्यं दातव्येन धनेन युक्ता स्तुतिराववर्त तेषामेशामर्थाय हिरण्ययी हरण्मयी हिरण्यालङ्कारवत्प्रीतिकरास्मन्मुखात्पुनः पुनरावर्तत इत्यर्थः। तत्र दृष्टान्तः। पौंस्या पौंस्यानि बलानि नेमधिता न नेमधितौ सङ्ग्रामे। विष्टान्ता व्याप्तावसाना व्रुथेव यथा घटिकायन्त्रमाला तद्वदित्यर्थः॥१३॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८