मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ९३, ऋक् १४

संहिता

प्र तद्दु॒ःशीमे॒ पृथ॑वाने वे॒ने प्र रा॒मे वो॑च॒मसु॑रे म॒घव॑त्सु ।
ये यु॒क्त्वाय॒ पञ्च॑ श॒तास्म॒यु प॒था वि॒श्राव्ये॑षाम् ॥

पदपाठः

प्र । तत् । दुः॒ऽशीमे॑ । पृथ॑वाने । वे॒ने । प्र । रा॒मे । वो॒च॒म् । असु॑रे । म॒घव॑त्ऽसु ।
ये । यु॒क्त्वाय॑ । पञ्च॑ । श॒ता । अ॒स्म॒ऽयु । प॒था । वि॒ऽश्रावि॑ । ए॒षा॒म् ॥

सायणभाष्यम्

ये देवाः पञ्च शता शतानि रथान्युक्त्वायाश्वैर्युक्त्वास्मय्वस्मात्कामाः सन्तः पथा यज्ञमार्गेण गच्छन्ति तेषामेषां देवानां विश्रावि देवानां लोके नानाविशेशेण श्रावकगुणयुक्तं तत्स्तोत्रं दुःशीमे दुशीमनाम्निपृथवाने। पृथवानः पृथिः। तस्मिन् वेने चासुरे बलवति रामे चैतेशु राजसु प्र वोचम्। प्रब्रवीमि। प्रख्यापयामीत्यर्थः। मघवत्स्वन्येषु धनवत्सु च प्रख्यापयामीत्यर्थः॥१४॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८