मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ९५, ऋक् १

संहिता

ह॒ये जाये॒ मन॑सा॒ तिष्ठ॑ घोरे॒ वचां॑सि मि॒श्रा कृ॑णवावहै॒ नु ।
न नौ॒ मन्त्रा॒ अनु॑दितास ए॒ते मय॑स्कर॒न्पर॑तरे च॒नाह॑न् ॥

पदपाठः

ह॒ये । जाये॑ । मन॑सा । तिष्ठ॑ । घो॒रे॒ । वचां॑सि । मि॒श्रा । कृ॒ण॒वा॒व॒है॒ । नु ।
न । नौ॒ । मन्त्राः॑ । अनु॑दितासः । ए॒ते । मयः॑ । क॒र॒न् । पर॑ऽतरे । च॒न । अह॑न् ॥

सायणभाष्यम्

पुरूरवसो वाक्यम् । जायां पश्यन्वदति। हये हे गूरे। अस्माकं दुःखजनकत्वात्। घोरकारिणि जाये मनसास्मदुपर्यनुरागवता मनसा युक्ता सती तिष्ठ। क्षणमात्रं संनिधावेव निवस। हव इत्यस्य निघाताभावश्छान्दसः। किमर्थं संस्थानमिति तत्राह। वचाम्सि वाक्यानि मिश्राण्युक्तिप्रत्युक्तिरूपाणि न्वद्य क्षिप्रं वा कृणवावहै करवावहै। दृवि हिंसाकरणयोः। धिन्विकृण्व्योरच्चेत्युप्रत्ययः। किमर्थं वचसः करणमिति चेत् उच्यते। नावावयोर्मन्त्रा रहस्यार्था एते विवक्षिता अनुदितासोऽव्याह्रियमाणाः परस्परमसम्भाष्यमाणा गुम्फिताः सन्तः परतरे चनाहन्। चनेति निपातसमुदायश्चार्थे। अनेकेषु दिवसेशु चरमेऽप्यहनि महः सुखनामैतत्। सुखं न करन्। कुर्वन्ति। अतः कृणावावहा इति॥१॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः