मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ९५, ऋक् ३

संहिता

इषु॒र्न श्रि॒य इ॑षु॒धेर॑स॒ना गो॒षाः श॑त॒सा न रंहि॑ः ।
अ॒वीरे॒ क्रतौ॒ वि द॑विद्युत॒न्नोरा॒ न मा॒युं चि॑तयन्त॒ धुन॑यः ॥

पदपाठः

इषुः॑ । न । श्रि॒ये । इ॒षु॒ऽधेः । अ॒स॒ना । गो॒ऽसाः । श॒त॒ऽसाः । न । रंहिः॑ ।
अ॒वीरे॑ । क्रतौ॑ । वि । द॒वि॒द्यु॒त॒त् । न । उरा॑ । न । मा॒युम् । चि॒त॒य॒न्त॒ । धुन॑यः ॥

सायणभाष्यम्

अनया पुरूरवाः स्वस्य विरहजनितं वैक्लव्यं तां प्रतिब्रूते। इषुधेः। इशवो धीयन्तेऽत्रेतीषुधिर्निषङ्गः। ततः सकाशादिषुरसनायै प्रक्षेप्तुं न भवति श्रिये विजयार्थम्। त्वद्विरहाद्युद्धस्य बुद्धावप्यनिधानात्। तथा रंहिर्वेगवानहं शत्रुसकाशाद्गोषास्तेषां शत्रूणां गवां सम्भक्ता नाभवम्। तथा शतसाः शतानामपरिमितानां शत्रुधनानां सम्भक्ता नाभवम्। किञ्चावीरे वीरविर्जिते क्रतौ राजकर्मणि सति न वि दविद्युतत्। न विद्योतते। न मत्सामर्थ्यम्। किञ्च धुनयः कम्पयितारोऽस्मदीया नरा उरोरौ॥ सुपां सुलुगिति सप्तम्या डादेशः। विस्तीर्णे सङ्ग्रामे मायुम्। मीयते प्रक्शिप्यत इति मायुः शब्दः। कृवापाजीत्यादिनोण्। सिंहनादम् न चितयन्त। न बुध्यन्ते। चिती संज्ञाने। अस्माण्णिचि संज्ञापूर्वकस्य विधेरनित्यत्वाल्लघूपधगुनाभावः। छान्दसो लङ्॥३॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः