मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ९५, ऋक् ५

संहिता

त्रिः स्म॒ माह्न॑ः श्नथयो वैत॒सेनो॒त स्म॒ मेऽव्य॑त्यै पृणासि ।
पुरू॑र॒वोऽनु॑ ते॒ केत॑मायं॒ राजा॑ मे वीर त॒न्व१॒॑स्तदा॑सीः ॥

पदपाठः

त्रिः । स्म॒ । मा॒ । अह्नः॑ । श्न॒थ॒यः॒ । वै॒त॒सेन॑ । उ॒त । स्म॒ । मे॒ । अव्य॑त्यै । पृ॒णा॒सि॒ ।
पुरू॑रवः । अनु॑ । ते॒ । केत॑म् । आ॒य॒म् । राजा॑ । मे॒ । वी॒र॒ । त॒न्वः॑ । तत् । आ॒सीः॒ ॥

सायणभाष्यम्

अनेन पुरूरवसमेव सम्बोध्योक्तवती। हे पुरूरवः त्वं मा मामह्नोऽहनि वैतसेन दण्डेन पुंव्यञ्जनेन त्रिस्त्रिवारम्। द्वित्रिचतुर्भ्यः सुच्। पा. ५-४-१८। श्नथयः स्म। अश्नथयः। अताडयः। कृत्वोर्थप्रयोगे। पा. २-३-६४। इति कालवाचिनोऽहः शब्दादधिकरणे षष्ठी। उतापि च। स्मेति पूरणः। अव्यत्यैः सपत्नीभिः सह पर्यायेण पतिमागच्छति सा व्यती। न तादृश्यव्यती। तस्यै मे मह्यं पृणासि । पूरयसि। एवं बुद्ध्या हे पुरूरवः ते तव केतं ग्रुहमानयम् । अन्वगमं पूर्वम् । हे वीर राजा त्वम् च मे मम तन्वः शरीरस्य तत्तदासीः। .... सुखयितेति शेषः । परमप्येवं मन्तव्यम् किमिति कातरो भवसीत्युवाच॥५॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः