सम॑स्मि॒ञ्जाय॑मान आसत॒ ग्ना उ॒तेम॑वर्धन्न॒द्य१॒॑ः स्वगू॑र्ताः ।
म॒हे यत्त्वा॑ पुरूरवो॒ रणा॒याव॑र्धयन्दस्यु॒हत्या॑य दे॒वाः ॥
सम् । अ॒स्मि॒न् । जाय॑माने । आ॒स॒त॒ । ग्नाः । उ॒त । ई॒म् । अ॒व॒र्ध॒न् । न॒द्यः॑ । स्वऽगू॑र्ताः ।
म॒हे । यत् । त्वा॒ । पु॒रू॒र॒वः॒ । रणा॑य । अव॑र्धयन् । द॒स्यु॒ऽहत्या॑य । दे॒वाः ॥
अनयैताभिः सह संसर्गस्त्वयानुभुत इत्युर्वशी वदति। अस्मिन्पुरूरवसि जायमाने सति ग्ना अप्सरसो देववेश्या अपि समासत। सङ्गता अभवन्। अथवा जायमाने यज्ञार्थं प्रवर्धमाने सति ग्ना देवपत्न्योऽपि समासत। समभवन्। उतापि चेमेनं पुरूरवसं स्वगूर्ताः स्वयंगामिन्यो नद्यस्तासामाश्रयभूता अवर्धयन्। किञ्च हे पुरूरवः यद्यस्मात्त्वा त्वां महे महते रणाय रमणीयाय सङ्ग्रामाय दस्युहत्याय दस्युहननाय देवास्त्वामवर्धयन्॥७॥