मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ९५, ऋक् ९

संहिता

यदा॑सु॒ मर्तो॑ अ॒मृता॑सु नि॒स्पृक्सं क्षो॒णीभि॒ः क्रतु॑भि॒र्न पृ॒ङ्क्ते ।
ता आ॒तयो॒ न त॒न्व॑ः शुम्भत॒ स्वा अश्वा॑सो॒ न क्री॒ळयो॒ दन्द॑शानाः ॥

पदपाठः

यत् । आ॒सु॒ । मर्तः॑ । अ॒मृता॑सु । नि॒ऽस्पृक् । सम् । क्षो॒णीभिः॑ । क्रतु॑ऽभिः । न । पृ॒ङ्क्ते ।
ताः । आ॒तयः॑ । न । त॒न्वः॑ । शु॒म्भ॒त॒ । स्वाः । अश्वा॑सः । न । क्री॒ळयः॑ । दन्द॑शानाः ॥

सायणभाष्यम्

यद्यदास्वमृतास्वप्सरसः मर्तो मनुष्यः पुरूरवा निस्पृक् निःशेशेण स्पृशन् क्षोणीभिर्वाग्भिः क्रतुभिर्न कर्मभिश्च सं पृङ्ग्के सम्पर्कं करोति। नकारः समुच्चयार्थः। ता अप्सरस आतय आतिभूतास्तदानीं स्वास्तन्व आत्मीयानि रूपाणि न भुंभत। न प्रकाशयन्ति। अश्वासो नाश्वा इव क्रीळयः संक्रीडमाना दन्दशाना दन्दशूका जिह्वाभिरात्मीयाः सृक्वा भक्षयन्तः। ते यथा चापल्येन धावन्तः स्वरूपं न प्रयच्छन्ति रथिकाय तद्वदिति दुःखाद्ब्रूते॥९॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः