मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ९५, ऋक् १०

संहिता

वि॒द्युन्न या पत॑न्ती॒ दवि॑द्यो॒द्भर॑न्ती मे॒ अप्या॒ काम्या॑नि ।
जनि॑ष्टो अ॒पो नर्य॒ः सुजा॑त॒ः प्रोर्वशी॑ तिरत दी॒र्घमायु॑ः ॥

पदपाठः

वि॒ऽद्युत् । न । या । पत॑न्ती । दवि॑द्योत् । भर॑न्ती । मे॒ । अप्या॑ । काम्या॑नि ।
जनि॑ष्टो॒ इति॑ । अ॒पः । नर्यः॑ । सुऽजा॑तः । प्र । उ॒र्वशी॑ । ति॒र॒त॒ । दी॒र्घम् । आयुः॑ ॥

सायणभाष्यम्

अनयोर्वशीं स्तौति। योर्वशी विद्युन्न विद्युदिव पतन्ती गच्छन्ती दविद्योत् द्योतते। किं कुर्वती। अप्या। अप इत्यन्तरिक्षनाम। तत्सम्बन्धीनि व्याप्तानि वा काम्यान्यस्मदभिमतान्युदकानि वा मे मह्यं भरन्ती सम्पादयन्ती। यदागतायास्तस्याः सकाशादपो व्याप्तः कर्मसु नर्यो नरेभ्यो हितः सुजातः सुजननः पुत्रो जनिष्तो अजनिष्ट उत्पद्यते तदानीं ममोर्वशी दीर्घमायुः प्रतिरत। प्रवर्धयति। प्रजामनु प्रजायसे तदु ते मर्त्यामृतम्। तै. ब्रा. १-५-५-६। इति हि मन्त्रः॥१०॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः