मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ९५, ऋक् १३

संहिता

प्रति॑ ब्रवाणि व॒र्तय॑ते॒ अश्रु॑ च॒क्रन्न क्र॑न्ददा॒ध्ये॑ शि॒वायै॑ ।
प्र तत्ते॑ हिनवा॒ यत्ते॑ अ॒स्मे परे॒ह्यस्तं॑ न॒हि मू॑र॒ मापः॑ ॥

पदपाठः

प्रति॑ । ब्र॒वा॒णि॒ । व॒र्तय॑ते । अश्रु॑ । च॒क्रन् । न । क्र॒न्द॒त् । आ॒ऽध्ये॑ । शि॒वायै॑ ।
प्र । तत् । ते॒ । हि॒न॒व॒ । यत् । ते॒ । अ॒स्मे इति॑ । परा॑ । इ॒हि॒ । अस्त॑म् । न॒हि । मू॒र॒ । मा॒ । आपः॑ ॥

सायणभाष्यम्

इदमुर्वशीवाक्यम्। हे पुरुरवः त्वां प्रति ब्रवाणि। प्रतिवच्मि। त्वदपत्यमश्रुबाष्पम् वर्तयते। वर्तयिष्यति। आध्य अध्याते वस्तुनि शिवायै शिवे कल्याणे समुपस्थिते सति चक्रन्रुदन्नश्रूणि विमुञ्चन्न क्रन्दत्। नकारश्चार्थे। रोत्स्यति चेत्यर्थः। तत्त्वपदपत्यं ते तुभ्यं हिनव प्रहिणोमि यदपत्यं ते तव सम्बन्ध्यस्मे अस्मासु निहितम्। त्वं परेह्यस्तम् । अस्तमिति गृहनाम। स्वगृहं प्रतिगच्छ। हे मूर मूढ मा मां न ह्यापः। न प्राप्नोषि। हिनवेत्यत्र हिनोतेश्चन्दसि लुङ्लङ्लिटि इति भविष्यदर्थे लङि मिप आमादेशः। गुणः। अन्त्यलोपश्छान्दसः। बहुलवचनादडभावः। आपः। आप्लृ व्याप्तौ। लिटि तिङां तिङो भवन्तिति थलो णल्॥१३॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः