मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ९५, ऋक् १६

संहिता

यद्विरू॒पाच॑रं॒ मर्त्ये॒ष्वव॑सं॒ रात्री॑ः श॒रद॒श्चत॑स्रः ।
घृ॒तस्य॑ स्तो॒कं स॒कृदह्न॑ आश्नां॒ तादे॒वेदं ता॑तृपा॒णा च॑रामि ॥

पदपाठः

यत् । विऽरू॑पा । अच॑रम् । मर्त्ये॑षु । अव॑सम् । रात्रीः॑ । श॒रदः॑ । चत॑स्रः ।
घृ॒तस्य॑ । स्तो॒कम् । स॒कृत् । अह्नः॑ । आ॒श्ना॒म् । तात् । ए॒व । इ॒दम् । त॒तृ॒पा॒णा । च॒रा॒मि॒ ॥

सायणभाष्यम्

यद्यदा विरूपा मनुष्यसम्पर्काद्विगतसहजभुतदेवरूपापत्यानुकूल्येन नानारूपा वा मर्त्येशु मनुष्येष्वचरं तदानीं रात्रीः पूरयित्रीश्चतस्रः शरदोऽवसम् । न्यवसम्। अत्यन्तसंयोगे द्वितीया। तदानीं घृतस्य स्तोक्तं सकृदह्न आश्नाम् । तादेव तेनैव स्तोकेनाहमिदम् सम्प्रति तातृपाणा तृप्ता सती चरामि॥१६॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः