मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ९५, ऋक् १८

संहिता

इति॑ त्वा दे॒वा इ॒म आ॑हुरैळ॒ यथे॑मे॒तद्भव॑सि मृ॒त्युब॑न्धुः ।
प्र॒जा ते॑ दे॒वान्ह॒विषा॑ यजाति स्व॒र्ग उ॒ त्वमपि॑ मादयासे ॥

पदपाठः

इति॑ । त्वा॒ । दे॒वाः । इ॒मे । आ॒हुः॒ । ऐ॒ळ॒ । यथा॑ । ई॒म् । ए॒तत् । भव॑सि । मृ॒त्युऽब॑न्धुः ।
प्र॒ऽजा । ते॒ । दे॒वान् । ह॒विषा॑ । य॒जा॒ति॒ । स्वः॒ऽगे । ऊं॒ इति॑ । त्वम् । अपि॑ । मा॒द॒या॒से॒ ॥

सायणभाष्यम्

हे ऐळ पुरूरवः त्वा त्वामिमे देवा इत्याहुः। मृत्युबन्धुर्मृत्योर्बन्धको मृत्योर्बन्धुभुतो वा मृत्युवशमप्राप्नुवंस्त्वम् यथें यथैतद्भवसि भविष्यसि प्रजा प्रकर्षेण जायमानस्त्वं ते तव सम्बन्धिनो यष्टव्यान्देवान्हविषा यजासि। यजसि। स्वर्ग उ स्वर्ग एव त्वमपि मादयासे। मादयसेऽस्माभिः सह। एवमाहुरित्यर्थः। यस्मादेवं करोषि तस्मादभिलाषं हित्वा सुखी भवेति सेयं पुरूरवसं प्रत्युवाच॥१९॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः