मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ९६, ऋक् १

संहिता

प्र ते॑ म॒हे वि॒दथे॑ शंसिषं॒ हरी॒ प्र ते॑ वन्वे व॒नुषो॑ हर्य॒तं मद॑म् ।
घृ॒तं न यो हरि॑भि॒श्चारु॒ सेच॑त॒ आ त्वा॑ विशन्तु॒ हरि॑वर्पसं॒ गिरः॑ ॥

पदपाठः

प्र । ते॒ । म॒हे । वि॒दथे॑ । शं॒सि॒ष॒म् । हरी॒ इति॑ । प्र । ते॒ । व॒न्वे॒ । व॒नुषः॑ । ह॒र्य॒तम् । मद॑म् ।
घृ॒तम् । न । यः । हरि॑ऽभिः । चारु॑ । सेच॑त । आ । त्वा॒ । वि॒श॒न्तु॒ । हरि॑ऽवर्पसम् । गिरः॑ ॥

सायणभाष्यम्

अथ प्र ते मह इति त्रयोदशर्चम् षष्ठं सूक्तम्। बरुर्नामाङ्गिरस ऋषिः इन्द्रस्य पुत्रह् सर्वहरिर्वा नाम। द्वादशीत्रयोदशौ त्रिष्टुभौ शिष्टा एकादश जगत्यः। इन्द्रस्याश्वौ हरी। तयोरत्र स्तूयमानत्वात्तदेवताकमिदम्। तथा चानुक्रान्तम्। प्रते सप्तोना बरुः सर्वहरिर्वैन्द्रो हरिस्तुतिर्द्वित्रिष्तुबन्तम्। अतिरात्रे तृतीये पर्याये ब्राह्मनाच्छंसिन एतत्सूक्तम्। सूत्रितं च। प्रते मह ऊती शचीवस्तव वीर्येणेति याज्या। आ. ६-४। इति। षोडशिशस्त्रेऽप्याद्यस्तृचः शंसनीयः। सूत्रितं च। प्रते महे विदथे शंसिषं हरी इति तिस्रो जगत्यः॥ आ. ६-२॥ इति॥

हे इन्द्र ते तव हरी अश्वौ महे महति विदथे यज्ञे प्र शंसिषम् । अशंसिषम्। अस्ताविशम्। तथा वनुषः। वनु हिंसायाम् । हिंसकस्य ते तव हर्यतम्। हर्य गतिकान्त्योः। तसौणादिकोऽतच्। चित्स्वरेणान्तोदात्तः। कमनीयं मदं प्रपन्वे। प्रयाचेऽस्मदभिमतम्। वनु याचने। य इन्द्रो हरिभिर्हरितवर्णैरश्वैर्मद्यागं गत्वा चारु चरणीयं घृतं न घृतमिव सुपूतमुदकं सेचते वर्षति तं तादृशं हरिपर्वसम्। वर्प इति रूपनाम। हरितरूपं त्वा त्वामा विशन्तु गिरोऽस्मदीयाः स्तुतिवाचस्तव मदाय॥१॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः