मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ९६, ऋक् ३

संहिता

सो अ॑स्य॒ वज्रो॒ हरि॑तो॒ य आ॑य॒सो हरि॒र्निका॑मो॒ हरि॒रा गभ॑स्त्योः ।
द्यु॒म्नी सु॑शि॒प्रो हरि॑मन्युसायक॒ इन्द्रे॒ नि रू॒पा हरि॑ता मिमिक्षिरे ॥

पदपाठः

सः । अ॒स्य॒ । वज्रः॑ । हरि॑तः । यः । आ॒य॒सः । हरिः॑ । निऽका॑मः । हरिः॑ । आ । गभ॑स्त्योः ।
द्यु॒म्नी । सु॒ऽशि॒प्रः । हरि॑मन्युऽसायकः । इन्द्रे॑ । नि । रू॒पा । हरि॑ता । मि॒मि॒क्षि॒रे॒ ॥

सायणभाष्यम्

अस्येन्द्रस्य स वज्रो हरितो हरितवर्णो य आयसोऽयः सारभूतोऽस्तिनिर्मितः। स च हरिर्हरितवर्णो वज्रो निकामो नितरां कमनीयः। स आ हन्ता शत्रूणाम्। तादृशो वज्रो गभस्त्योर्हस्तयोर्वर्तत इति शेषः। अयमिन्द्रो द्युम्नी। द्युम्नंद्योतमानं धनम्। तद्वान् सुशिप्रः शोभनहनुर्हरिमन्युसायकः। यस्य मन्युः सायकः शत्रुहन्ताभिगन्ता वा भवति। यद्वा। शत्रुहन्ता कोपः सायकश्च यस्य स तादृशो भवति। किं बहुना। इन्द्रे। रूपा रुपाणि हरिता हरितानि नि मिमिक्षिरे। निशिक्तानि बभूवुः। मिहेः सनन्तात्कर्मणी लिटि रूपम्॥३॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः