मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ९६, ऋक् ४

संहिता

दि॒वि न के॒तुरधि॑ धायि हर्य॒तो वि॒व्यच॒द्वज्रो॒ हरि॑तो॒ न रंह्या॑ ।
तु॒ददहिं॒ हरि॑शिप्रो॒ य आ॑य॒सः स॒हस्र॑शोका अभवद्धरिम्भ॒रः ॥

पदपाठः

दि॒वि । न । के॒तुः । अधि॑ । धा॒यि॒ । ह॒र्य॒तः । वि॒व्यच॑त् । वज्रः॑ । हरि॑तः । न । रंह्या॑ ।
तु॒दत् । अहि॑म् । हरि॑ऽशिप्रः । यः । आ॒य॒सः । स॒हस्र॑ऽशोकाः । अ॒भ॒व॒त् । ह॒रि॒म्ऽभ॒रः ॥

सायणभाष्यम्

दिव्यन्तरिक्षे केतुः प्रकाशेन सर्वस्य प्रज्ञापक आदित्य इव स यथाधि निहितः एवमयमिन्द्रोऽधि धायि। अध्यधायि। स्तोतृभिरधि निहितः। किञ्चेन्द्रस्य वज्रो हर्यतः स्पृहणीयः सन् विव्यचत्। व्याप्नोति वाप्तव्यं शत्रुसङ्घम्। तत्र दृष्टान्तः। हरितो न हरितवर्ना अध्वाहर्तारो वाश्वा आदित्यसम्बन्धिनः। ते यथा रंह्या रंहणेन वेगेन व्याप्नुवन्ति व्याप्तव्यम्। योऽस्य वज्र आयसोऽयोविकारोऽहिं वृत्रं मेघं वा तुदत् हिनस्ति। योऽयं महानुभावो हरिशिप्रः सोमपानरभसेन हरितवर्णसासिकस्तद्वर्णहनुर्वा हरिंभरो हर्योर्भर्तेन्द्रः सहस्रोशोका अभवत्॥ शुच दीप्तौ। अपरिमितदीप्तिर्भवति॥४॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः