मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ९६, ऋक् ६

संहिता

ता व॒ज्रिणं॑ म॒न्दिनं॒ स्तोम्यं॒ मद॒ इन्द्रं॒ रथे॑ वहतो हर्य॒ता हरी॑ ।
पु॒रूण्य॑स्मै॒ सव॑नानि॒ हर्य॑त॒ इन्द्रा॑य॒ सोमा॒ हर॑यो दधन्विरे ॥

पदपाठः

ता । व॒ज्रिण॑म् । म॒न्दिन॑म् । स्तोम्य॑म् । मदे॑ । इन्द्र॑म् । रथे॑ । व॒ह॒तः॒ । ह॒र्य॒ता । हरी॒ इति॑ ।
पु॒रूणि॑ । अ॒स्मै॒ । सव॑नानि । हर्य॑ते । इन्द्रा॑य । सोमाः॑ । हर॑यः । द॒ध॒न्वि॒रे॒ ॥

सायणभाष्यम्

ता तौ प्रसिद्धौ हर्यता हर्यतौ गन्तारौ कान्तौ वा हरी हरितवर्णावश्वौ मन्दिनं मोदमानं स्तोम्यं स्तुत्यर्हं वज्रिणमिन्द्रं मदे निमित्ते रथे वहतः। धारयतः। यज्ञमस्मदीयं प्रापयतः। अस्मै हर्यते कान्तायेन्द्राय पुरूणि बहूनि सवनानि प्रातरादीनि हरयो हरितवर्णाः सोमा दधन्विरे। निधीयन्ते॥६॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः