मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ९६, ऋक् ९

संहिता

स्रुवे॑व॒ यस्य॒ हरि॑णी विपे॒ततु॒ः शिप्रे॒ वाजा॑य॒ हरि॑णी॒ दवि॑ध्वतः ।
प्र यत्कृ॒ते च॑म॒से मर्मृ॑ज॒द्धरी॑ पी॒त्वा मद॑स्य हर्य॒तस्यान्ध॑सः ॥

पदपाठः

स्रुवा॑ऽइव । यस्य॑ । हरि॑णी॒ इति॑ । वि॒ऽपे॒ततुः॑ । शिप्रे॒ इति॑ । वाजा॑य । हरि॑णी॒ इति॑ । दवि॑ध्वतः ।
प्र । यत् । कृ॒ते । च॒म॒से । मर्मृ॑जत् । हरी॒ इति॑ । पी॒त्वा । मद॑स्य । ह॒र्य॒तस्य । अन्ध॑सः ॥

सायणभाष्यम्

यस्येन्द्रस्य हरिणी हरितवर्णावश्वौ विपेततुः रथ इन्द्रमारोप्य विपततो यज्ञमस्मदीयम्। यद्वा। यस्य हरिणी हरितवर्णे कनीनिके विपेततुः सोमं प्रति विपततः। तत्र दृष्टान्तः। स्रुवेव। यथा स्रुवा स्रुवौ हविषा पूर्णौ पात्रविशेशौ होमार्थं विपततः तद्वत्। तथा यस्य च हरिणी हरितवर्णे शिप्रे हनू वाजाय सोमलक्षणायान्नाय दविध्वतः कम्पयतः पुरतः प्रत्तस्य सोमस्य प्रीत्या चलतः। तथा यद्यदा कृते संस्कृते चमसे वर्तमानं मदस्य मदकरं हर्यतस्य कान्तमन्धसोन्नं सोमं पीत्वा हरी अश्वौ प्र मर्मृजत् प्रमार्ष्टि। तदानीं स्तुत इत्यर्थः॥९॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः