उ॒त स्म॒ सद्म॑ हर्य॒तस्य॑ प॒स्त्यो॒३॒॑रत्यो॒ न वाजं॒ हरि॑वाँ अचिक्रदत् ।
म॒ही चि॒द्धि धि॒षणाह॑र्य॒दोज॑सा बृ॒हद्वयो॑ दधिषे हर्य॒तश्चि॒दा ॥
उ॒त । स्म॒ । सद्म॑ । ह॒र्य॒तस्य॑ । प॒स्त्योः॑ । अत्यः॑ । न । वाज॑म् । हरि॑ऽवान् । अ॒चि॒क्र॒द॒त् ।
म॒ही । चि॒त् । हि । धि॒षणा॑ । अह॑र्यत् । ओज॑सा । बृ॒हत् । वयः॑ । द॒धि॒षे॒ । ह॒र्य॒तः । चि॒त् । आ ॥
उतापि च हर्यतस्य कमनीयस्येन्द्रस्य सद्म सदनं पस्त्यॊर्द्यावापृथिव्योः सम्बन्धि। सोऽयमत्यो नाश्व इव वाजं सङ्ग्रामं हरिवानश्ववानचिक्रात्। गच्छति। तथा हि यस्माद्धे इन्द्र त्वां मही महती धिषणा स्तुतिरोजसा बलेन युक्तमिन्द्र महर्यत् कामयते। चिदिति पूरणः। अतो वाजमचिक्रदत्। तथा सति हर्यतः कामयमानस्य यजमानस्य ब्रुहन्महद्वयोऽन्नमा दधिषे। धारयसि। आप्रयच्छसि। चिदिति पूरणः॥१०॥