मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ९६, ऋक् १२

संहिता

आ त्वा॑ ह॒र्यन्तं॑ प्र॒युजो॒ जना॑नां॒ रथे॑ वहन्तु॒ हरि॑शिप्रमिन्द्र ।
पिबा॒ यथा॒ प्रति॑भृतस्य॒ मध्वो॒ हर्य॑न्य॒ज्ञं स॑ध॒मादे॒ दशो॑णिम् ॥

पदपाठः

आ । त्वा॒ । ह॒र्यन्त॑म् । प्र॒ऽयुजः॑ । जना॑नाम् । रथे॑ । व॒ह॒न्तु॒ । हरि॑ऽशिप्रम् । इ॒न्द्र॒ ।
पिब॑ । यथा॑ । प्रति॑ऽभृतस्य । मध्वः॑ । हर्य॑न् । य॒ज्ञम् । स॒ध॒ऽमादे॑ । दश॑ऽओणिम् ॥

सायणभाष्यम्

हे इन्द्र हरिशिप्रं हरितवर्णशिप्रं त्वा त्वां हर्यन्तं यज्ञं कामयमानं प्रयुजो रथे प्र्युक्ता अश्वा रथे स्थापयित्वा जनानामृत्विग्यजमानानामन्तिकं वहन्तु। प्रापयन्तु। प्रवहन्ति। यथा येन प्राकारेन प्रतिभृतस्य ग्रहादिषु सम्भृतं मध्वो मधु सोमरसं यज्ञं यागसाधनं दशोणिम् । ओणयोऽङुलयः। दशभिरङ्गुलिभिः सम्पादितं सोमं हर्यन् कामयमानः सन् पिब पिबसि सधमादे सङ्ग्रामे जयर्थं तथवहन्त्वित्यर्थः॥१२॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः