मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ९७, ऋक् २

संहिता

श॒तं वो॑ अम्ब॒ धामा॑नि स॒हस्र॑मु॒त वो॒ रुहः॑ ।
अधा॑ शतक्रत्वो यू॒यमि॒मं मे॑ अग॒दं कृ॑त ॥

पदपाठः

श॒तम् । वः॒ । अ॒म्ब॒ । धामा॑नि । स॒हस्र॑म् । उ॒त । वः॒ । रुहः॑ ।
अध॑ । श॒त॒ऽक्र॒त्वः॒ । यू॒यम् । इ॒मम् । मे॒ । अ॒ग॒दम् । कृ॒त॒ ॥

सायणभाष्यम्

हे अम्ब मातर ओषधयः वो युष्माकं धामानि स्थानानि जन्मानि वा शतमपरिमितानि। उतापि च वो युश्माकम् रुहः प्ररोहः प्रोद्गमह् सहस्रमपरिमितः। अधापि च हे शतक्रत्वः शतकर्मानह् यूयमिमं मे मां मदीयं वा जनमामयग्रस्तमगदम्। गदो रोगः। तद्रहितं कृत। कुरुत॥२॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः