मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ९७, ऋक् ३

संहिता

ओष॑धी॒ः प्रति॑ मोदध्वं॒ पुष्प॑वतीः प्र॒सूव॑रीः ।
अश्वा॑ इव स॒जित्व॑रीर्वी॒रुधः॑ पारयि॒ष्ण्व॑ः ॥

पदपाठः

ओष॑धीः । प्रति॑ । मो॒द॒ध्व॒म् । पुष्प॑ऽवतीः । प्र॒ऽसूव॑रीः ।
अश्वाः॑ऽइव । स॒ऽजित्व॑रीः । वी॒रुधः॑ । पा॒र॒यि॒ष्ण्वः॑ ॥

सायणभाष्यम्

हे ओषधीरोशधयः प्रति मोदध्वम्। इमं रुग्णं प्रति मुदिता हृष्टा भवत। कीदृश्यो यूयम्। पुस्पवतीः पुश्पवत्यः प्रसूवरीः। प्रकर्षेण सूयन्त उपभोगायेति प्रसवाः फलानि। तद्वत्यः किञ्चाश्वा इवाश्नुवाना हया इव सजित्वरीः सह रोगं जयन्त्यः वीरुधो व्रोहन्त्यः पारयिष्ण्वो रुग्णं पुरुषं पारयन्त्यो रोगात्॥३॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः