मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ९७, ऋक् ४

संहिता

ओष॑धी॒रिति॑ मातर॒स्तद्वो॑ देवी॒रुप॑ ब्रुवे ।
स॒नेय॒मश्वं॒ गां वास॑ आ॒त्मानं॒ तव॑ पूरुष ॥

पदपाठः

ओष॑धीः । इति॑ । मा॒त॒रः॒ । तत् । वः॒ । दे॒वीः॒ । उप॑ । ब्रु॒वे॒ ।
स॒नेय॑म् । अश्व॑म् । गाम् । वासः॑ । आ॒त्मान॑म् । तव॑ । पु॒रु॒ष॒ ॥

सायणभाष्यम्

हे ओषधीरोषधयो देवीर्देव्यो द्योतनादिगुणका हे मातरो जनानां मातृभूताः। मातृवद्धितकारित्वान्मातृत्वोपचारः। अथवा मातर आरोग्यनिर्मात्र्यह् वो युश्माकं सम्बन्धिनं भिषजं तद्वक्ष्यमानमितीत्थमुप ब्रुवे। उपब्रवीमि। किं तदिति चेत् उच्यते। ओशध्यर्थमहमश्वं गां पासोऽंशुकं किं बहुनात्मानमपि हे पुरुष चिकित्सक तव तुभ्यम् सनेयम् । ददामि॥४॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः