मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ९७, ऋक् ६

संहिता

यत्रौष॑धीः स॒मग्म॑त॒ राजा॑न॒ः समि॑ताविव ।
विप्र॒ः स उ॑च्यते भि॒षग्र॑क्षो॒हामी॑व॒चात॑नः ॥

पदपाठः

यत्र॑ । ओष॑धीः । स॒म्ऽअग्म॑त । राजा॑नः । समि॑तौऽइव ।
विप्रः॑ । सः । उ॒च्य॒ते॒ । भि॒षक् । र॒क्षः॒ऽहा । अ॒मी॒व॒ऽचात॑नः ॥

सायणभाष्यम्

यत्र यस्मिन्देशे ओषधीरोषधयः समग्मत सङ्गच्छन्ते। राजानह् समिताविव सङ्ग्रामे यथा सङ्गता भवन्ति तद्वत्। तासाम् नानाविधानामोषधीनां सङ्गमनं यस्मिन्देशेऽस्ति तत्र विप्रः प्राज्ञो ब्राह्मणो भिषगुच्यते रक्षोहा रक्षोहन्ता। अमीवचातनः। अमीवा व्याधिः। तस्य चातनश्चातयिता नाशयिता च भवति तदानीम्॥६॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः