मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ९७, ऋक् ८

संहिता

उच्छुष्मा॒ ओष॑धीनां॒ गावो॑ गो॒ष्ठादि॑वेरते ।
धनं॑ सनि॒ष्यन्ती॑नामा॒त्मानं॒ तव॑ पूरुष ॥

पदपाठः

उत् । शुष्माः॑ । ओष॑धीनाम् । गावः॑ । गो॒स्थात्ऽइ॑व । ई॒र॒ते॒ ।
धन॑म् । स॒नि॒ष्यन्ती॑नाम् । आ॒त्मान॑म् । तव॑ । पु॒रु॒ष॒ ॥

सायणभाष्यम्

ओषधीनां शुष्मा बलान्युदीरते। उद्गच्छन्ति। रुग्णे स्ववीर्यं प्रोद्गमयन्तित्यर्थः। गावो गोष्ठादिव।द् ता यथा ततः सकाशादुदीरते तद्वत्। कीदृशीनामोषधीनाम् । उच्यते। धनं स्वसामर्थ्यलक्शणं सनिष्यन्तीनां दातुमिच्छन्तीनाम्। किं प्रतीति उच्यते। पूरुष पुरुष रोगग्रस्त तवात्मानं शरीरं प्रति। यद्वा। प्ररोहन्तीरोषधीर्दृष्ट्वा वदति। हे पुरुष प्रियङ्ग्वाद्योषधिस्वामिन् तवात्मानं वर्धयितुं धनं सनिष्यन्तीनां व्रीह्याद्योशधीनां शुष्मा उदीरते॥८॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः