मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ९७, ऋक् ९

संहिता

इष्कृ॑ति॒र्नाम॑ वो मा॒ताथो॑ यू॒यं स्थ॒ निष्कृ॑तीः ।
सी॒राः प॑त॒त्रिणी॑ः स्थन॒ यदा॒मय॑ति॒ निष्कृ॑थ ॥

पदपाठः

इष्कृ॑तिः । नाम॑ । वः॒ । मा॒ता । अथो॒ इति॑ । यू॒यम् । स्थ॒ । निःऽकृ॑तीः ।
सी॒राः । प॒त॒त्रिणीः॑ । स्थ॒न॒ । यत् । आ॒मय॑ति । निः । कृ॒थ॒ ॥

सायणभाष्यम्

हे ओषधयः वो माता जननीष्कृतिर्नाम। सर्वेशां रुग्णानां निष्कर्त्रीति प्रसिद्धा यस्मात्सा रुग्णं निष्करोति। अथातो यूयमपि निष्कृतीर्निष्कृतयः स्थः। भवथ। किञ्च यूयं सीराः सरणशीलाः पतत्रीणीः पतनवत्यश्च स्थन। भवथ। तप्तनबिति तनादेशः। किञ्च पुरुषो यद्यद्यामयति व्याधितो भवति तं निष्क्रुथ। संस्कुरुथः॥९॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः