मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ९७, ऋक् ११

संहिता

यदि॒मा वा॒जय॑न्न॒हमोष॑धी॒र्हस्त॑ आद॒धे ।
आ॒त्मा यक्ष्म॑स्य नश्यति पु॒रा जी॑व॒गृभो॑ यथा ॥

पदपाठः

यत् । इ॒माः । वा॒जय॑न् । अ॒हम् । ओष॑धीः । हस्ते॑ । आ॒ऽद॒धे ।
आ॒त्मा । यक्ष्म॑स्य । न॒श्य॒ति॒ । पु॒रा । जी॒व॒ऽगृभः॑ । य॒था॒ ॥

सायणभाष्यम्

अहं यद्यदीमा ओषधीर्हस्त आदधे आधारयामि। किं कुर्वन्। वाजयन् रुग्णं बलिनं कुर्वन्। ततः पुरा यक्ष्मस्य रोगस्यात्मा नश्यति नष्टो भवति जीवगृभो यथा। जीवानां शकुनादीनां ग्राहकाद्व्याधाद्यथा जीवा नश्यन्ति तद्वत्। यद्वा। जीवगृभो मृत्योः सकाशाज्जीवोऽपह्रियते। तद्वत्॥११॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०