मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ९७, ऋक् १३

संहिता

सा॒कं य॑क्ष्म॒ प्र प॑त॒ चाषे॑ण किकिदी॒विना॑ ।
सा॒कं वात॑स्य॒ ध्राज्या॑ सा॒कं न॑श्य नि॒हाक॑या ॥

पदपाठः

सा॒कम् । य॒क्ष्म॒ । प्र । प॒त॒ । चाषे॑ण । कि॒कि॒दी॒विना॑ ।
सा॒कम् । वात॑स्य । ध्राज्या॑ । सा॒कम् । न॒श्य॒ । नि॒ऽहाक॑या ॥

सायणभाष्यम्

हे अस्मदीयस्य पुरुषस्य शरीराधिष्ठायिन्यक्ष्म व्याधे त्वम् साकं सहैव प्रपत। प्रकर्षॆण शीघ्रं गच्छ। केन साकमिति उच्यते। चाषेणातिशीघ्रम् पतताचाषाख्येन पक्षिणा सह। तथा किकिदीविना पक्षिणा च सह। तथा वातस्य शीघ्रं गच्छतो वायोर्ध्राज्या। ध्रज गतौ। गतिवेगेन सह गच्छ। तथा निहाकया गोधिकया साकं नश्य। नाशं प्राप्नुहि॥१३॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०