मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ९७, ऋक् १५

संहिता

याः फ॒लिनी॒र्या अ॑फ॒ला अ॑पु॒ष्पा याश्च॑ पु॒ष्पिणी॑ः ।
बृह॒स्पति॑प्रसूता॒स्ता नो॑ मुञ्च॒न्त्वंह॑सः ॥

पदपाठः

याः । फ॒लिनीः॑ । याः । अ॒फ॒लाः । अ॒पु॒ष्पाः । याः । च॒ । पु॒ष्पिणीः॑ ।
बृह॒स्पति॑ऽप्रसूताः । ताः । नः॒ । मु॒ञ्च॒न्तु॒ । अंह॑सः ॥

सायणभाष्यम्

याः फलिनीः फलवत्यो या अफलाः फलवर्जिता या अपुष्पाः पुष्परहिता याश्च पुष्पिणीः पुष्पवत्यो बृहस्पति प्रसूताः। बृहस्पतिर्मन्त्राभिमानी देवः। तेनानुज्ञाताः। ता नोऽस्मानंहसो मुञ्चन्तु। मोचयन्तु॥१५॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०