मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ९७, ऋक् १६

संहिता

मु॒ञ्चन्तु॑ मा शप॒थ्या॒३॒॑दथो॑ वरु॒ण्या॑दु॒त ।
अथो॑ य॒मस्य॒ पड्बी॑शा॒त्सर्व॑स्माद्देवकिल्बि॒षात् ॥

पदपाठः

मु॒ञ्चन्तु॑ । मा॒ । श॒प॒थ्या॑त् । अथो॒ इति॑ । व॒रु॒ण्या॑त् । उ॒त ।
अथो॒ इति॑ । य॒मस्य॑ । पड्बी॑शात् । सर्व॑स्मात् । दे॒व॒ऽकि॒ल्बि॒षात् ॥

सायणभाष्यम्

मा मामोषधयः शपथ्याच्छपथसञ्जातादेनसः सकाशान्मुञ्चन्तु। अथो अपि च वरुण्याद्वरुणसम्भवान्मां मुञ्चन्तु। वरुणोऽपि स्वपाशेन जातमात्रम् पुरुषं बध्नाति। उतेति पूरणः। अथो अपि च यमस्य पड्बीशात्पादबन्धनान्निगडान्मुञ्चन्तु। न केवलं वरुनादेः पापात् किन्तु सर्वस्याद्देवकिल्बिषाद्देवैः कृतात्पापान्मुञ्चन्तु॥१६॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११