मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ९७, ऋक् १८

संहिता

या ओष॑धी॒ः सोम॑राज्ञीर्ब॒ह्वीः श॒तवि॑चक्षणाः ।
तासां॒ त्वम॑स्युत्त॒मारं॒ कामा॑य॒ शं हृ॒दे ॥

पदपाठः

याः । ओष॑धीः । सोम॑ऽराज्ञीः । ब॒ह्वीः । श॒तऽवि॑चक्षणाः ।
तासा॑म् । त्वम् । अ॒सि॒ । उ॒त्ऽत॒मा । अर॑म् । कामा॑य । शम् । हृ॒दे ॥

सायणभाष्यम्

या ओषधीरोषधयः सोमाराज्ञीः सोमो राजा स्वामी यासां तास्तथोक्ता बह्वीरसङ्ख्याताः शतविचक्शणा बहुदरहना हे सोमाख्य ओषधे तासामोषधीनां त्वमुत्तमासि। यस्मादेवम् तस्मादरमलमत्यर्थं कामाय कान्ताय हृदे हृदयाय शं सुखकरी भवेति शेषः॥१८॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११