मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ९७, ऋक् १९

संहिता

या ओष॑धी॒ः सोम॑राज्ञी॒र्विष्ठि॑ताः पृथि॒वीमनु॑ ।
बृह॒स्पति॑प्रसूता अ॒स्यै सं द॑त्त वी॒र्य॑म् ॥

पदपाठः

याः । ओष॑धीः । सोम॑ऽराज्ञीः । विऽस्थि॑ताः । पृ॒थि॒वीम् । अनु॑ ।
बृह॒स्पति॑ऽप्रसूताः । अ॒स्यै । सम् । द॒त्त॒ । वी॒र्य॑म् ॥

सायणभाष्यम्

ल्या ओशधीरोशधयः सोमराज्ञीः पृथिवीमनु विष्ठिता विविधं स्मिताः दिवः सकाशादागत्य पृथिव्यां नानाभेदेन स्थिताः बृहस्पतिप्रसूता ब्रुहस्पतिनानुज्ञाताः सत्यो यूयमस्यै रुग्णतत्वे वीर्यं सं दत्त। सन्धश्च॥१९॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११