मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ९७, ऋक् २०

संहिता

मा वो॑ रिषत्खनि॒ता यस्मै॑ चा॒हं खना॑मि वः ।
द्वि॒पच्चतु॑ष्पद॒स्माकं॒ सर्व॑मस्त्वनातु॒रम् ॥

पदपाठः

मा । वः॒ । रि॒ष॒त् । ख॒नि॒ता । यस्मै॑ । च॒ । अ॒हम् । खना॑मि । वः॒ ।
द्वि॒ऽपत् । चतुः॑ऽपत् । अ॒स्माक॑म् । सर्व॑म् । अ॒स्तु॒ । अ॒ना॒तु॒रम् ॥

सायणभाष्यम्

हे ओशधयः वो युश्मान्मा रिशत्। मा हिंस्यात्। कः। खनिता भूमेः खननकर्ता। यस्मै रुग्णाय चाहं खनामि वो युश्मान्। किञ्चास्माकं सम्बन्धि द्विपत् पुत्रभृत्यादिकं चतुष्पद्गोमहिश्यादिकं च यदस्ति तत्सर्वमनातुरमरोगमस्तु॥२०॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११