मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ९७, ऋक् २१

संहिता

याश्चे॒दमु॑पशृ॒ण्वन्ति॒ याश्च॑ दू॒रं परा॑गताः ।
सर्वा॑ः सं॒गत्य॑ वीरुधो॒ऽस्यै सं द॑त्त वी॒र्य॑म् ॥

पदपाठः

याः । च॒ । इ॒दम् । उ॒प॒ऽशृ॒ण्वन्ति॑ । याः । च॒ । दू॒रम् । परा॑ऽगताः ।
सर्वाः॑ । स॒म्ऽगत्य॑ । वी॒रु॒धः॒ । अ॒स्यै । सम् । द॒त्त॒ । वी॒र्य॑म् ॥

सायणभाष्यम्

याश्चौशधय इदं स्तोत्रमुपशृण्वन्ति याश्चौषधयो दूरं परागताः सर्वा वीरुधः सङ्गत्य सङ्गताः सत्यो हे वीरुधः अस्यै रुग्णतन्वे वीर्यं सं दत्त॥२१॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११