मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ९७, ऋक् २२

संहिता

ओष॑धय॒ः सं व॑दन्ते॒ सोमे॑न स॒ह राज्ञा॑ ।
यस्मै॑ कृ॒णोति॑ ब्राह्म॒णस्तं रा॑जन्पारयामसि ॥

पदपाठः

ओष॑धयः । सम् । व॒द॒न्ते॒ । सोमे॑न । स॒ह । राज्ञा॑ ।
यस्मै॑ । कृ॒णोति॑ । ब्रा॒ह्म॒णः । तम् । रा॒ज॒न् । पा॒र॒या॒म॒सि॒ ॥

सायणभाष्यम्

ऒषधयः सर्वाः सोमेन राज्ञा सह सं वदन्ते। संवादं कुर्वन्ति। किमिति उच्यते। यस्मै रुग्णाय ब्राह्मण ओषधिसामर्थ्यज्ञो ब्राह्मणो वैद्यः कृणोति करोति चिकित्सां तं रुग्णं हे राजन् पारयामसि। पारयामः। इदन्तो मसिः॥२२॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११