मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ९७, ऋक् २३

संहिता

त्वमु॑त्त॒मास्यो॑षधे॒ तव॑ वृ॒क्षा उप॑स्तयः ।
उप॑स्तिरस्तु॒ सो॒३॒॑ऽस्माकं॒ यो अ॒स्माँ अ॑भि॒दास॑ति ॥

पदपाठः

त्वम् । उ॒त्ऽत॒मा । अ॒सि॒ । ओ॒ष॒धे॒ । तव॑ । वृ॒क्षाः । उप॑स्तयः ।
उप॑स्तिः । अ॒स्तु॒ । सः । अ॒स्माक॑म् । यः । अ॒स्मान् । अ॒भि॒ऽदास॑ति ॥

सायणभाष्यम्

हे ओषधे सोमाख्ये त्वमोषधीनामन्यासामुत्तमासि। तव वृक्षाह् सर्व उपस्तयः। अधः शायिन एव। तथा सति स उपस्तिरस्तु अधः शायी भवतु योऽस्मानभिदासति हिनस्ति। भ्रातृव्य इति॥२३॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११