मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ९८, ऋक् १

संहिता

बृह॑स्पते॒ प्रति॑ मे दे॒वता॑मिहि मि॒त्रो वा॒ यद्वरु॑णो॒ वासि॑ पू॒षा ।
आ॒दि॒त्यैर्वा॒ यद्वसु॑भिर्म॒रुत्वा॒न्त्स प॒र्जन्यं॒ शंत॑नवे वृषाय ॥

पदपाठः

बृह॑स्पते । प्रति॑ । मे॒ । दे॒वता॑म् । इ॒हि॒ । मि॒त्रः । वा॒ । यत् । वरु॑णः । वा॒ । असि॑ । पू॒षा ।
आ॒दि॒त्यैः । वा॒ । यत् । वसु॑ऽभिः । म॒रुत्वा॑न् । सः । प॒र्जन्य॑म् । शम्ऽत॑नवे । वृ॒ष॒य॒ ॥

सायणभाष्यम्

बृहस्पते प्रतिति द्वादशर्चमष्टमं सूक्तं त्रैष्टुभम् बृहस्पतिमित्रादिसर्वदेवताकम्। ऋष्टिषेणपुत्रो देवापिर्नामर्षिः। तथा चानुक्रान्तम्। बृहस्पते द्वादशार्ष्टिषेणो देवापिर्वृष्टिकामो देवाम्स्तुष्टाव। गतह् सुक्तविनियोगः। अस्य सूक्तस्याख्यानं निरुक्तकारः प्रदर्शयति। देवापिश्चार्ष्तिशेनः शन्तनुश्च कौरव्यौ भ्रातरौ बभूवतुः। स शन्तनुः कनीयानभिषेचयाम्चक्ते देवापिस्तपः प्रतिपदे। ततः शन्तनो राज्ये द्वादशवर्षाणि देवो न ववर्ष। तमूचुर्ब्राह्मणा अधर्मस्त्वया चरितो ज्येष्ठं भ्रातरमन्तरित्याभिशेचितम् तस्मात्ते देवो न वर्षतीति। स शन्तनुर्देवापिं शिशिक्श राज्येन। तमुवाच देवापिः पुरोहितस्तेऽसानि याजयानि च त्वेति। तस्यै तद्वर्षकामसूक्तम्। नि. २-१०। इति॥

तत्र ब्रह्मत्वे प्रवृत्तो बृहस्पतिमनुधावति। हे ब्रुहस्पते मे मम वृष्ट्यर्थं प्रति देवतां प्रतीहि। प्रतिगच्छ। यष्टव्या देवताः प्रतिगच्छ। यदि त्वं मित्रो वासि अथवा वरुणोऽसि यद्वा पूषासि अथवादित्यैर्द्वादशादित्यैररुणादिभिर्वसुभिर्वासकैरष्टवसुभिर्धरध्रुवादिभिः सह मरुत्वान्। मरुतो देवाः । तद्वानसि। स त्वं पर्जन्यं तर्पयितारं मेघं शन्तनवे राज्ञे व्रुषाय। वर्षय॥ छन्दसि शायजपीति व्यत्ययेन शपोऽपि शायजादेशः॥१॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२