मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ९८, ऋक् २

संहिता

आ दे॒वो दू॒तो अ॑जि॒रश्चि॑कि॒त्वान्त्वद्दे॑वापे अ॒भि माम॑गच्छत् ।
प्र॒ती॒ची॒नः प्रति॒ मामा व॑वृत्स्व॒ दधा॑मि ते द्यु॒मतीं॒ वाच॑मा॒सन् ॥

पदपाठः

आ । दे॒वः । दू॒तः । अ॒जि॒रः । चि॒कि॒त्वान् । त्वत् । दे॒व॒ऽआ॒पे॒ । अ॒भि । माम् । अ॒ग॒च्छ॒त् ।
प्र॒ती॒ची॒नः । प्रति॑ । माम् । आ । व॒वृ॒त्स्व॒ । दधा॑मि । ते॒ । द्यु॒ऽमती॑म् । वाच॑म् । आ॒सन् ॥

सायणभाष्यम्

देव कश्चिद्दुतोऽजिरो गमनशीलश्चिकित्वांश्चेतनावान् हे देवापे त्वत् त्वत्तः सकाशात्त्वया प्रेषितः सन् मामभ्यागच्छत्। अभ्यागच्छतु। हे बृहस्पते प्रतीचीनोऽस्मदभिमुखो मां प्रत्या ववृत्स्व। मां प्रत्यागच्छ। ते तुभ्यं त्वदर्थं द्युमतीं दीप्तियुक्तां वाचं स्तुतिरूपं दधाम्यासन्नास्येऽस्मदीये॥२॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२