मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ९८, ऋक् ४

संहिता

आ नो॑ द्र॒प्सा मधु॑मन्तो विश॒न्त्विन्द्र॑ दे॒ह्यधि॑रथं स॒हस्र॑म् ।
नि षी॑द हो॒त्रमृ॑तु॒था य॑जस्व दे॒वान्दे॑वापे ह॒विषा॑ सपर्य ॥

पदपाठः

आ । नः॒ । द्र॒प्साः । मधु॑ऽमन्तः । वि॒श॒न्तु॒ । इन्द्र॑ । दे॒हि । अधि॑ऽरथम् । स॒हस्र॑म् ।
नि । सी॒द॒ । हो॒त्रम् । ऋ॒तु॒ऽथा । य॒ज॒स्व॒ । दे॒वान् । दे॒व॒ऽआ॒पे॒ । ह॒विषा॑ । स॒प॒र्य॒ ॥

सायणभाष्यम्

नोऽस्मान्द्रप्सा वृष्टिसंस्त्यया मधुमन्तो माधुर्योपेता आ विशन्तु। हे इन्द्र परमेश्वर बृहस्पते अधिरथं रथस्याध्युपरि वर्तमानं सहस्रं सहस्रसङ्ख्याकं धनं देहि। धेहि। यद्वा। रथमधिकं यस्य सहस्रस्य तादृशं गोसहस्रम्। हे देवापे नि षीद होत्रम्। आर्त्विज्ये निषीद। निशण्णश्च त्वमृतुथा काले काले यजस्व यष्टव्यान्देवान् स्तुत्या हविशा च सपर्य। परिचर॥४॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२