मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ९८, ऋक् ५

संहिता

आ॒र्ष्टि॒षे॒णो हो॒त्रमृषि॑र्नि॒षीद॑न्दे॒वापि॑र्देवसुम॒तिं चि॑कि॒त्वान् ।
स उत्त॑रस्मा॒दध॑रं समु॒द्रम॒पो दि॒व्या अ॑सृजद्व॒र्ष्या॑ अ॒भि ॥

पदपाठः

आ॒र्ष्टि॒षे॒णः । हो॒त्रम् । ऋषिः॑ । नि॒ऽसीद॑न् । दे॒वऽआ॑पिः । दे॒व॒ऽसु॒म॒तिम् । चि॒कि॒त्वान् ।
सः । उत्ऽत॑रस्मात् । अध॑रम् । स॒मु॒द्रम् । अ॒पः । दि॒व्याः । अ॒सृ॒ज॒त् । व॒र्ष्याः॑ । अ॒भि ॥

सायणभाष्यम्

आर्ष्टिषेण ऋष्तिषेणस्य पुत्रो देवापिरृषिर्देवसुमतिं देवानां कल्याणीं मतिं स्तुतिं चिकित्वाञ्जानन् होत्रं होतृकर्म कर्तुं निषीदन् निषण्णो भवति। स उत्तरस्मादुपरि वर्तमानादन्तरिक्षाख्यात्समुद्रादधरमधो वर्तमानं पार्थिवं समुद्रमभि दिव्या दिवि भवा वर्ष्या वर्षभवा अपोऽसृजत्। स्रुजतु। अत्रार्ष्टिषेण ऋष्टिषेणस्य पुत्र इत्यादि निरुक्तम्॥ २-११। द्रष्टव्यम्॥५॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२