यं त्वा॑ दे॒वापि॑ः शुशुचा॒नो अ॑ग्न आर्ष्टिषे॒णो म॑नु॒ष्य॑ः समी॒धे ।
विश्वे॑भिर्दे॒वैर॑नुम॒द्यमा॑न॒ः प्र प॒र्जन्य॑मीरया वृष्टि॒मन्त॑म् ॥
यम् । त्वा॒ । दे॒वऽआ॑पिः । शु॒शु॒चा॒नः । अ॒ग्ने॒ । आ॒र्ष्टि॒षे॒णः । म॒नु॒ष्यः॑ । स॒म्ऽई॒धे ।
विश्वे॑भिः । दे॒वैः । अ॒नु॒ऽम॒द्यमा॑नः । प्र । प॒र्जन्य॑म् । ई॒र॒य॒ । वृ॒ष्टि॒ऽमन्त॑म् ॥
हे अग्ने यं त्वा त्वां शशुचानः स्तोत्रेण ज्वलन् मनुष्य आर्ष्टिषेणो देवापिः समीधे सम्यग्दीपयति स त्वं विश्वेभिः सर्वैर्देवैरनुमद्यमानोऽनुमाद्यमानः सन् पर्जन्यं मेघं वृष्टिमन्तं वर्षणवन्तं प्रेरय। गमय॥८॥