मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ९८, ऋक् ९

संहिता

त्वां पूर्व॒ ऋष॑यो गी॒र्भिरा॑य॒न्त्वाम॑ध्व॒रेषु॑ पुरुहूत॒ विश्वे॑ ।
स॒हस्रा॒ण्यधि॑रथान्य॒स्मे आ नो॑ य॒ज्ञं रो॑हिद॒श्वोप॑ याहि ॥

पदपाठः

त्वाम् । पूर्वे॑ । ऋष॑यः । गीः॒ऽभिः । आ॒य॒न् । त्वाम् । अ॒ध्व॒रेषु॑ । पु॒रु॒ऽहू॒त॒ । विश्वे॑ ।
स॒हस्रा॑णि । अधि॑ऽरथानि । अ॒स्मे इति॑ । आ । नः॒ । य॒ज्ञम् । रो॒हि॒त्ऽअ॒श्व॒ । उप॑ । या॒हि॒ ॥

सायणभाष्यम्

हे अग्ने त्वां पूर्व ऋषयो गीर्भि स्तुतिभिरायन्। आगच्छन्। तथा हे पुरुहूत बहुभिराहूताग्ने विश्वे सर्वेऽपिदानींतना यजमाना अध्वरेषु यज्ञेषु स्तुतिभिर्गच्छन्तीति शेषः। किञ्च सहस्राणि सहस्रसङ्ख्याकानि गोयूथान्यधिरथानि रथाधिकान्यस्मे अस्माकं शन्तनुना दक्षिणात्वेन सङ्कल्पितानि भवन्त्विति शेशः। हे रोहिदश्व नो यज्ञमुप याहि। उपागच्छा॥९॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३