मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ९८, ऋक् १०

संहिता

ए॒तान्य॑ग्ने नव॒तिर्नव॒ त्वे आहु॑ता॒न्यधि॑रथा स॒हस्रा॑ ।
तेभि॑र्वर्धस्व त॒न्व॑ः शूर पू॒र्वीर्दि॒वो नो॑ वृ॒ष्टिमि॑षि॒तो रि॑रीहि ॥

पदपाठः

ए॒तानि॑ । अ॒ग्ने॒ । न॒व॒तिः । नव॑ । त्वे इति॑ । आऽहु॑तानि । अधि॑ऽरथा । स॒हस्रा॑ ।
तेभिः॑ । व॒र्ध॒स्व॒ । त॒न्वः॑ । शू॒र॒ । पू॒र्वीः । दि॒वः । नः॒ । वृ॒ष्टिम् । इ॒षि॒तः । रि॒री॒हि॒ ॥

सायणभाष्यम्

हे अग्ने गवां नवतिर्नव च तथैतान्यधिरथानि सहस्रा सहस्राणि च रथाधिकानि गवाम् सहस्राणि च त्वे त्वय्याहुतानि त्वयि प्रीणयितव्ये सत्याहुतानि। यद्वा। त्वे त्वय्याहुतानि समर्पितानीत्यर्थः। तेभिस्तैः प्रत्तैः पूर्वीर्बह्वीस्तन्वस्तनूर्युश्मदीया वर्धस्व। वर्धय। नोऽस्मदर्थं दिवो द्युलोकाद्वृष्तिमिषितः प्रार्थितः सन् रिरीहि। पूरय॥१०॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३