मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ९८, ऋक् ११

संहिता

ए॒तान्य॑ग्ने नव॒तिं स॒हस्रा॒ सं प्र य॑च्छ॒ वृष्ण॒ इन्द्रा॑य भा॒गम् ।
वि॒द्वान्प॒थ ऋ॑तु॒शो दे॑व॒याना॒नप्यौ॑ला॒नं दि॒वि दे॒वेषु॑ धेहि ॥

पदपाठः

ए॒तानि॑ । अ॒ग्ने॒ । न॒व॒तिम् । स॒हस्रा॑ । सम् । प्र । य॒च्छ॒ । वृष्णे॑ । इन्द्रा॑य । भा॒गम् ।
वि॒द्वान् । प॒थः । ऋ॒तु॒ऽशः । दे॒व॒ऽयाना॑न् । अपि॑ । औ॒ला॒नम् । दि॒वि । दे॒वेषु॑ । धे॒हि॒ ॥

सायणभाष्यम्

हे अग्ने गवामेतानि नवतिं सहस्रा सहस्रानि च वृष्णे वर्षित्र इन्द्राय भागं सं प्र यच्छ। तत्प्रीत्यर्थमृत्विग्भ्यो देहि। किञ्च देवायानान्पथो देवयानान्मार्गान्विद्वांस्त्वमृतुशः काले काल औलानमपि कुरुकुलजातमपि शान्तनवं देवेषु मध्ये धेहि। निधेहि। स्थापय॥११॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३