मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ९९, ऋक् १

संहिता

कं न॑श्चि॒त्रमि॑षण्यसि चिकि॒त्वान्पृ॑थु॒ग्मानं॑ वा॒श्रं वा॑वृ॒धध्यै॑ ।
कत्तस्य॒ दातु॒ शव॑सो॒ व्यु॑ष्टौ॒ तक्ष॒द्वज्रं॑ वृत्र॒तुर॒मपि॑न्वत् ॥

पदपाठः

कम् । नः॒ । चि॒त्रम् । इ॒ष॒ण्य॒सि॒ । चि॒कि॒त्वान् । पृ॒थु॒ऽग्मान॑म् । वा॒श्रम् । व॒वृ॒धध्यै॑ ।
कत् । तस्य॑ । दातु॑ । शव॑सः । विऽउ॑ष्टौ । तक्ष॑त् । वज्र॑म् । वृ॒त्र॒ऽतुर॑म् । अपि॑न्वत् ॥

सायणभाष्यम्

कं न इति द्वादशर्चं नवमं सूक्तम्। वैखानसस्य वम्रस्यार्षं त्रैष्टुभमैन्द्रम्। तथा चानुक्रान्तम्। कं नो वम्रो वैखानस इति। गतो विनियोगः॥

हे इन्द्र नोऽस्माकं चित्रं चायनीयं कं धनविशेषमिषण्यसि। प्रेरयसि। चिकित्वान् सर्वथा प्रेरणीयमिति जानन्। कीदृशं तम्। प्रुथुग्मानं पृथुभावं प्राप्नुवन्तं वात्रं शब्दनीयं स्तुत्यम्। किमर्थं च। ववृधद्या अस्माकं वर्धनाय। किञ्च तस्येन्द्रस्य तवसो बलस्य ब्युष्टौ व्युच्छने सति कद्दातु किं दानमस्माकं भवतीति शेषः। यं वज्रं वृत्रतुरं वृत्रस्यावरकस्य पापस्य हिंसकं त्वष्ट्वा तक्षत् ताक्षत् साधु सम्पादितवान् अपिन्वत् असिञ्चच्च। तस्य शवसो व्युष्टाविति सम्बन्धः। यद्वा। हे इन्द्र कत्किं तस्य वज्रस्य दानं भवति यं वज्रमिन्द्रार्थं तक्षदिति योजना। मह्यं त्वष्टा वज्रमतक्षदायसम्। ऋ. १०-४८-३। इति मन्त्रान्तरम्॥१॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४