मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ९९, ऋक् २

संहिता

स हि द्यु॒ता वि॒द्युता॒ वेति॒ साम॑ पृ॒थुं योनि॑मसुर॒त्वा स॑साद ।
स सनी॑ळेभिः प्रसहा॒नो अ॑स्य॒ भ्रातु॒र्न ऋ॒ते स॒प्तथ॑स्य मा॒याः ॥

पदपाठः

सः । हि । द्यु॒ता । वि॒ऽद्युता॑ । वेति॑ । साम॑ । पृ॒थुम् । योनि॑म् । अ॒सु॒र॒ऽत्वा । आ । स॒सा॒द॒ ।
सः । सऽनी॑ळेभिः । प्र॒ऽस॒हा॒नः । अ॒स्य॒ । भ्रातुः॑ । न । ऋ॒ते । स॒प्तथ॑स्य । मा॒याः ॥

सायणभाष्यम्

स हि स खल्विन्द्रो द्युता द्योतमानेन विद्युतैतन्नामकेनायुधेन युक्तः सन् साम सूत्रात्मकं यज्ञसम्बन्धि वेति। गच्छति। तथासुरत्वासुरत्वेन बलेन युक्तः सन् पृथुं विस्तीर्णं योनिं फलस्योत्पादकं यज्ञं ससाद। सङ्गतो भवति। स इन्द्रः सनीळेभिः॥ नीडं विमानम्। सविमानैर्मरुद्भिर्युक्तः प्रसहानोऽभि भवन्भवति। तस्य सप्तथस्यादित्यानां धात्रादीनां मध्ये सप्तमस्येन्द्रस्य भ्रातुर्भागैर्भक्तव्यस्य मायासुर्यते यज्ञे न सम्भवतीति शेषः॥२॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४