मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ९९, ऋक् ६

संहिता

स इद्दासं॑ तुवी॒रवं॒ पति॒र्दन्ष॑ळ॒क्षं त्रि॑शी॒र्षाणं॑ दमन्यत् ।
अ॒स्य त्रि॒तो न्वोज॑सा वृधा॒नो वि॒पा व॑रा॒हमयो॑अग्रया हन् ॥

पदपाठः

सः । इत् । दास॑म् । तु॒वि॒ऽरव॑म् । पतिः॑ । दन् । ष॒ट्ऽअ॒क्षम् । त्रि॒ऽशी॒र्षाण॑म् । द॒म॒न्य॒त् ।
अ॒स्य । त्रि॒तः । नु । ओज॑सा । वृ॒धा॒नः । वि॒पा । व॒रा॒हम् । अयः॑ऽअग्रया । ह॒न्निति॑ हन् ॥

सायणभाष्यम्

स इत् स एवेन्द्रः पतिः सर्वस्य स्वामी दासमुपक्शपयितारं तुवीरवं बहुशब्दं सङ्ग्रामे भयङ्करं शब्दं कुर्वाणं वृत्रं दन् दमयन् शळक्षमक्शिषट्कोपेतं त्रिशीर्षाणं त्रिशिरस्कं त्वष्टुः पुत्रं विश्वरूपं दमन्यत्। दमितं प्रहर्तुमैच्छत्। अवधीदित्यर्थः। यद्वा। दमयतीति दमनः। नन्द्यादित्वाल्ल्युः। स इवाचरति। उपमानादाजारे। पा. ३-१-१०। इति क्यच्यन्त्यलोपश्चान्दसः। ततो लङि बहुलं छन्दसीत्यडभावः। किञ्च त्रित एतन्नामा महर्षिरस्येन्द्रस्यौजसा बलेन वृधानो वर्धमानो विपाङ्गुल्या। कीदृश्या। आयो अग्रयायोवत्कठिननखया वराहं वराहारमुदकवन्तं मेघं व्यहन्। विहतवान्॥६॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४